(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.148. अध्यायः 148
Mahabharata - Vana Parva - Chapter Topics
दाचन पाञ्चाल्या भीमसंनिधाने वाय्वानीताद्भुतसौगन्धिकपुष्पदर्शनम् ॥ 1 ॥ तया तादृशबहुपुष्पानयनं प्रार्थितेन भीमेन तदर्थं गमनम् ॥ 2 ॥ भीमस्य मध्येमार्ग स्वमार्गनिरोधकेन हनुमता सह संवादः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-148-0x(2261)(21486)
तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः।
षड्रात्रमवसन्वीरा धनंजयदिदृक्षया ॥ 3-148-1(21487)
तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः।
मनोज्ञे काननवरे सर्व भूतमनोरमे ॥ 3-148-2(21488)
पादपैः पुष्पविकचैः फलभारावनामितैः।
शोभितः पर्वतो रम्यः पुंस्कोकिलकुलाकुलैः।
स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ॥ 3-148-3(21489)
सरांसि च विचित्राणि प्रसन्नसलिलानि च।
कमलैः सोत्पलैस्तत्रभ्राजमानानि सर्वशः।
पश्यन्तश्चारुरूपाणइ रेमिरे तत्र पाण्डवाः ॥ 3-148-4(21490)
पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः।
ह्लादयन्पाण्डवान्सर्बान्सकृष्णान्सद्विजर्षभान् ॥ 3-148-5(21491)
ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया।
सहस्रपत्रमर्काभं दिव्यं पद्ममुपाहरत् ॥ 3-148-6(21492)
तदवैक्षत पाञ्चाली दिव्यगन्धं मनोरमम्।
अनिलेनाहृतंभूमौ पतितं जलजं शुचि ॥ 3-148-7(21493)
तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्।
अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ॥ 3-148-8(21494)
पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्।
गन्धसंस्थानसंपन्नं मनसो मम नन्दनम् ॥ 3-148-9(21495)
इदं च धर्मराजाय प्रदास्यामि परंतप।
`गृह्यापराणि पुष्पाणि बहूनि पुरुषर्षभ'।
हरेरिदं मे कामाय काम्यके पुनराश्रमे ॥ 3-148-10(21496)
यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर।
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ॥ 3-148-11(21497)
एवमुक्त्वा तु पाञ्चली भीमसेनमनिन्दिता।
जगाम पुष्पमादाय धर्मराजाय तत्तदा ॥ 3-148-12(21498)
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः।
प्रियायाः प्रियकामः स प्रायाद्भीमो महाबलः ॥ 3-148-13(21499)
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम्।
आजिहीर्षुर्जगामाशु सपुष्पाण्यपराण्यपि ॥ 3-148-14(21500)
रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान्।
मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः।
[ददृशुः सर्वभूतानि महाबाणधनुर्धरम् ॥ 3-148-15(21501)
न ग्लानिर्न च वैक्लब्यं न भयं न च संभ्रमः।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥] 3-148-16(21502)
द्रौपद्याः प्रियमन्विच्छन्स बाहुबलमाश्रितः।
व्यपेतभयसमोहः शैलमभ्यपतद्बली ॥ 3-148-17(21503)
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम्।
गिरिं चचारारिहरः किन्नराचरितं शुभम् ॥ 3-148-18(21504)
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः।
सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम् ॥ 3-148-19(21505)
सर्वर्तुरमणीयेषु गन्धमादनसानुषु।
सक्तचक्षुरभिप्रायान्हृदयेनानुचिन्तयन् ॥ 3-148-20(21506)
पुंस्कोकिलनिनादेषु षट्पदाचरितेषु च।
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ॥ 3-148-21(21507)
आजिघ्रन्स महातेजाः सर्वर्तुकुसुमोद्भवम्।
गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः ॥ 3-148-22(21508)
वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना।
पितुः संस्पर्शशीतेन गन्धमादनवायुना ॥ 3-148-23(21509)
ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः ॥ 3-148-24(21510)
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्।
विलोकयामास तदा पुष्पहेतोररिंदमः ॥ 3-148-25(21511)
विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः।
विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ॥ 3-148-26(21512)
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः।
मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ॥ 3-148-27(21513)
अभिरामदरीकुञ्जनिर्झरोदककन्दरम्।
अप्सरोनूपुररवैः प्रनृत्तवरबर्हिणम् ॥ 3-148-28(21514)
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम्।
स्रस्तांशुकमिवाश्रोभ्यैर्निम्नगानिःसृतैर्जलैः ॥ 3-148-29(21515)
सशष्पकबलैः स्वस्थैरदूरपरिवर्तिभिः।
भयानभिक्षज्ञैर्हरिणैः कौतूहलनिरीक्षितः ॥ 3-148-30(21516)
चालयानः स्ववेगेन लताजालान्यनेकशः।
आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ॥ 3-148-31(21517)
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः।
प्रांशुः कनकवर्णाभः सिंहसंहननो युवा ॥ 3-148-32(21518)
मत्तवारणविक्रन्तो मत्तवारणवेगवान्।
मत्तवारणताम्राक्षो मत्तवारणवारणः ॥ 3-148-33(21519)
प्रियपार्श्वोपविष्टाभिर्वायवृत्ताभिर्विचेष्टितैः।
यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ॥ 3-148-34(21520)
नवावतारं रूपस् विक्रीडन्निव पाण्डवः।
चचार रमणीयेषु गन्धमादनसानुषु ॥ 3-148-35(21521)
संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून्।
द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ॥ 3-148-36(21522)
सोऽचिन्तयत्तथा पार्थे मयि त्वतिविलम्बिते।
पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः ॥ 3-148-37(21523)
स्नेहान्नरवरो नूनमविश्वासाद्बलस्य च।
नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ॥ 3-148-38(21524)
कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन्।
प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ॥ 3-148-39(21525)
[सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु।
द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ॥] 3-148-40(21526)
कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु।
त्रासयन्गजयूथानि वातरंहा वृकोदरः ॥ 3-148-41(21527)
सिंहव्याघ्रमृगांश्चैव मर्दयानो महाबलः।
उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ॥ 3-148-42(21528)
लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः।
उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ॥ 3-148-43(21529)
जलावलम्बोऽतिभृशं सविद्युदिव तोयदः।
`व्यनदत्स महानादं भीमसेनो महाबलः ॥ 3-148-44(21530)
तेन शब्देन महता भीमस्य प्रतिबोधिताः।
गुहां संतत्यजुर्व्याघ्रा निलिल्युर्वनवासिनः ॥ 3-148-45(21531)
समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः।
ऋक्षाश्चोत्ससृजर्वृक्षांस्तत्यजुर्हरयो गुहाम्।
व्यजृम्भन्त महासिंहा महिषाश्च वनेचराः ॥ 3-148-46(21532)
तेन वित्रासिता नागाः करेणुपरिवारिताः।
तद्वनं संपरित्यज्य जग्मुरन्यन्महावनम् ॥ 3-148-47(21533)
वराहमृगसङ्घाश्च महिषाश्च वनेचराः।
व्याघ्रगोमायुसङ्घाश्च प्रणेदुर्गवयैः सह ॥ 3-148-48(21534)
रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवाः।
शुकाः पारावताः कौञ्चा विसंज्ञा भेजिरे दिशः ॥ 3-148-49(21535)
तथाऽन्ये दर्पिता नागाः करेणुशरपीडिताः।
सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमथाद्रवन् ॥ 3-148-50(21536)
शकृन्मूत्रं च मुञ्चाना भयविभ्रान्तमानसाः।
व्यादितास्या महारौद्र व्यनदन्भीषणान्रवान् ॥ 3-148-51(21537)
ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः।
गजेनान्यान्गजान्श्रीमान्सिंहं सिंहेन वा विभुः।
तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ॥ 3-148-52(21538)
ते वध्यमाना भीमेन सिंहव्याघ्रतरक्षवः।
भयाद्विससृजुर्भीमं शकृन्मूत्रं च सुस्रुवुः ॥ 3-148-53(21539)
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः।
वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ॥ 3-148-54(21540)
अथापश्यन्महाबाहुर्गनधमादनसानुषु।
सुरम्यं कदलीषणअडं बहुयोजनविस्तृतम् ॥ 3-148-55(21541)
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः।
महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ॥ 3-148-56(21542)
उत्पाट्य कदलीस्तम्भान्बहुतालसमुच्छ्रयान्।
चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः।
विमर्दन्सुमहातेजा नृसिंह इव दर्पितः ॥ 3-148-57(21543)
ततः संन्यपतंस्तत्रसुबहूनि महान्ति च।
रुरुवारणयूथानि महिषाश्च जलाश्रयाः ॥ 3-148-58(21544)
`प्रविवेश ततः क्षिप्रं तानपास्य महाबलः।
वनं पाण्डुसुतः श्रीमान्नादेनापूरयन्दिशः' ॥ 3-148-59(21545)
तेन शब्देन चैवाथ भीमसेनरवेण च।
वनान्तरगताश्चापि वित्रेसुर्मृहपक्षिः ॥ 3-148-60(21546)
तस्मिननथ प्रवृत्ते तु संक्षोभे मृगपक्षिणाम्।
जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ॥ 3-148-61(21547)
तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः।
तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ॥ 3-148-62(21548)
काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः।
वीज्यमानमिवाक्षोभ्यं तीरात्तीरविसर्पिभिः ॥ 3-148-63(21549)
तत्सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम्।
महागज इवोद्दामश्चिक्रीड बलवद्बली ॥ 3-148-64(21550)
विक्रीड्यतस्मिन्रुचिरमुत्ततारामितद्युतिः।
`क्षोभयन्सलिलं भीमः प्रभिन्न इववारणः' ॥ 3-148-65(21551)
ततो जगाहे वेगेन तद्वनं बहुपादपम्।
दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः।
[आस्फोटयच्च बलवान्भीमः संनादयन्दिशः ॥] 3-148-66(21552)
तस्य शङ्खस्य शब्दन भीमसेनरवेण च।
बाहुशब्दन चोग्रेण नदन्तीव गिरेर्गुहाः ॥ 3-148-67(21553)
तं वज्रनिष्पेषसममास्फोटितमहारवम्।
श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ॥ 3-148-68(21554)
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत।
मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ॥ 3-148-69(21555)
तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः। 3-148-70(21556)
[भ्रातरं भीमसेनं तु विज्ञाय हनुमान्कपिः ॥ 3-148-70(21557)
दिवंगमं रुरोधाथ मार्गं भीमस्य कारणात्।
अनेन हि पथा मा वै गच्छेदिति विचार्य सः ॥ 3-148-71(21558)
आस्त एकायने मार्गे कदलीषण्डमण्डिते।
भ्रातुर्भीमस्य रक्षार्थं तं मार्गमवरुध्य वै ॥ 3-148-72(21559)
माऽत्र प्राप्स्यति शापं वा धर्षणां वेति पाण्डवः।
कदलीषण्डमध्यस्थो ह्येवं संचिन्त्य वानरः ॥ 3-148-73(21560)
प्राजृम्भत महाकायो हनूमान्नाम वानरः।
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा ॥ 3-148-74(21561)
`तेन शब्देन महता व्यबुध्यत महाकपिः'।
जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम्।
आस्फोटयच्चलाङ्गूलमिन्द्राशनिसमस्वनम् ॥ 3-148-75(21562)
तस्य लाङ्गूलनिनदं पर्वतः सुगुहामुखैः।
उद्गारमिव गौर्नर्दन्नुत्ससर्ज समन्ततः ॥ 3-148-76(21563)
लाङ्गूलास्फोटशब्दाच्च चलितः स महागिरिः।
विघूर्णमानशिखरः समन्तात्पर्यशीर्यत ॥ 3-148-77(21564)
स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम्।
अन्तर्धायविचित्रेषु चचार गिरिसानुषु ॥ 3-148-78(21565)
स भीमसेनस्तच्छ्रुत्वा संप्रहृष्टतनूरुहः।
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ॥ 3-148-79(21566)
कदलीवनमध्यस्थमथ पीने शिलातले।
ददर्श सुमहाबाहुर्वानराधिपतिं तदा ॥ 3-148-80(21567)
विद्युत्संपातदुष्प्रेक्षं विद्युत्संपातपिङ्गलम्।
विद्युत्संपातनिनदं विद्युत्संपातचञ्चलम् ॥ 3-148-81(21568)
बाहुस्वस्तिकविन्यस्तपीनवृत्तशिरोधरम्।
स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् ॥ 3-148-82(21569)
किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च।
लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ॥ 3-148-83(21570)
ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्धुवम्।
अपश्यद्वदनं तस्य रश्मिवन्तमिवोडुपम् ॥ 3-148-84(21571)
वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम्।
केसरोत्करसंमिश्रमशोकानामिवोत्करम् ॥ 3-148-85(21572)
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्।
दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम्।
निरीक्षन्तमपत्रस्तं लोचनैर्मधुपिङ्गलैः ॥ 3-148-86(21573)
तं वानरवरं धीमानतिकायं महाबलम्।
स्वर्गपन्थानमावृत्य हिमवन्तमिव स्तितम् ॥ 3-148-87(21574)
दृष्ट्वा चैनं महाबाहुरेकं तस्मिन्महावने।
अथोपसृत्यतरसा भीमो भीमपराक्रमः ॥ 3-148-88(21575)
सिंहनादं चकारोग्रं वज्राशनिसमं बली।
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः ॥ 3-148-89(21576)
हनूमांश्च महासत्व ईषदुन्मील्य लोचने।
दृष्ट्वा तमथ सावज्ञं लोचनैर्मधुपिङ्गलैः ॥ 3-148-90(21577)
`ततः पवनजः श्रीमानन्तिकस्थं महौजसम्'।
स्मितेन चैनमासाद्यहनूमानिदमब्रवीत् ॥ 3-148-91(21578)
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः।
ननु नाम त्वया कार्या दया भूतेषु जानता ॥ 3-148-92(21579)
वयं धर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः।
नरास्तु बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु ॥ 3-148-93(21580)
क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु।
धर्मघातिषु सज्जन्ते बुद्दिमन्तो भवद्विधाः ॥ 3-148-94(21581)
न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया।
अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान् ॥ 3-148-95(21582)
ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः।
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ॥ 3-148-96(21583)
क्व च त्वयाऽद्यगन्तव्यं प्रब्रूहि पुरुषर्षभ।
अतः परमगम्योऽयं पर्वतः सुदुरारुहः ॥ 3-148-97(21584)
विना सिद्धगतिं वीर गतिरत्र न विद्यते।
[देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा] ॥ 3-148-98(21585)
कारुण्यात्त्वामहं वीर वारयामि निबोध मे।
नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ॥ 3-148-99(21586)
स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ।
इमान्यमृतकल्पानि मूलानि च फलानि च ॥ 3-148-100(21587)
भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम्।
ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव ॥ 3-148-101(21588)

इति श्रीमन्महाभारेत अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 248 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-148-3 पुष्पविकचैर्विकसितकुसुमैः ॥ 3-148-6 पूर्वोत्तरे ऐशानकोणे ॥ 3-148-8 सौगन्धिकं पद्मजातिभेदः ॥ 3-148-9 संस्थानमाकारः ॥ 3-148-10 हरेः आहर। इदमे तज्जातीयम् ॥ 3-148-15 प्रभिन्नो मत्तः ॥ 3-148-16 मातरिश्वनो वायोः ॥ 3-148-23 पितुर्यथा पुत्रस्पर्शः शीतस्तादृक् स्पर्शवता वायुनेत्यर्थः ॥ 3-148-24 पित्रा वायुना ॥ 3-148-26 धातुविच्छेदैर्धातुभेदैः। अङ्गुलैरिव विषमच्छदैः सप्तपर्णादिभिर्नानाधातुरञ्जितपत्रैः। आञ्जनेति कृष्णधातुग्रहणम्। पीतकृष्णश्वेतधातुभिरित्यर्थः ॥ 3-148-27 पयोधरैर्मेघैः ॥ 3-148-28 दरी बिलगृहम्। कदरं महाप्रपातः ॥ 3-148-29 विषाणाग्रैर्दन्ताग्रैः। शिलाः समपाषाणाः शयनासनयोग्याः। उपलास्तदन्ये ॥ 3-148-30 शष्पं बालतृणम्। कबलो ग्रासस्तद्युक्तैः ॥ 3-148-33 वारणानामपि वारणः निवारकः संग्रामादौ ॥ 3-148-34 विचेष्टितैर्व्यावृत्ताभिः निश्चेष्टाभिरेकाग्राभिरित्यर्थः ॥ 3-148-35 रूपस्य सौन्दर्यस्य ॥ 3-148-41 निर्घात उत्पातः। पर्वसु उत्सवेषु ॥ 3-148-42 पोथयन् मर्दयन् ॥ 3-148-43 लता भूचरा। बल्ली वृक्षचरेति भेदः ॥ 3-148-49 रथाङ्गसाह्वाः चक्रसमाननामानश्चक्रवाका इतियावत्। दात्यूहः मयूरश्चातको वा ॥ 3-148-50 करेणुशरेण हस्तिनीकृतेवोत्तेजनेन पीजिताः। शरस्तूतेजने वाणे इतिभेदिनी ॥ 3-148-56 आस्त्रावी मत्तः ॥ 3-148-64 नलिनोत्पलं पद्मपुष्पम् ॥ 3-148-68 आस्फोटितं बाहुधातः ॥ 3-148-71 दिवंरामं मार्गं स्वर्गमार्गम् ॥ 3-148-72 एकायने अतिसंकुचिते ॥ 3-148-76 उद्गारं रप्रतिशब्दं गौरिव उत्ससर्ज ॥ 3-148-82 बाहोः स्वस्तिकं चतुरश्रं मूलं अंस इति यावत् तत्र न्यस्तकधरमित्यर्थः। तत्र हेतुः स्कन्धेति। विपुलांसत्वादित्यर्थः ॥ 3-148-84 उडुपं चन्द्रम् ॥ 3-148-85 अशोकानामशोकपुष्पाणाम् ॥ 3-148-92 सरुजः सपीडः। ते स्वया ॥ 3-148-99 आश्वसिहि विश्वासं कुरु ॥ 3-148-101 मह्यं मम ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.