|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.148. अध्यायः 148
Mahabharata - Vana Parva - Chapter Topics
दाचन पाञ्चाल्या भीमसंनिधाने वाय्वानीताद्भुतसौगन्धिकपुष्पदर्शनम् ॥ 1 ॥ तया तादृशबहुपुष्पानयनं प्रार्थितेन भीमेन तदर्थं गमनम् ॥ 2 ॥ भीमस्य मध्येमार्ग स्वमार्गनिरोधकेन हनुमता सह संवादः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-148-0x(2261)(21486)
तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः।
षड्रात्रमवसन्वीरा धनंजयदिदृक्षया ॥ 3-148-1(21487)
तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः।
मनोज्ञे काननवरे सर्व भूतमनोरमे ॥ 3-148-2(21488)
पादपैः पुष्पविकचैः फलभारावनामितैः।
शोभितः पर्वतो रम्यः पुंस्कोकिलकुलाकुलैः।
स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः ॥ 3-148-3(21489)
सरांसि च विचित्राणि प्रसन्नसलिलानि च।
कमलैः सोत्पलैस्तत्रभ्राजमानानि सर्वशः।
पश्यन्तश्चारुरूपाणइ रेमिरे तत्र पाण्डवाः ॥ 3-148-4(21490)
पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः।
ह्लादयन्पाण्डवान्सर्बान्सकृष्णान्सद्विजर्षभान् ॥ 3-148-5(21491)
ततः पूर्वोत्तरे वायुः प्लवमानो यदृच्छया।
सहस्रपत्रमर्काभं दिव्यं पद्ममुपाहरत् ॥ 3-148-6(21492)
तदवैक्षत पाञ्चाली दिव्यगन्धं मनोरमम्।
अनिलेनाहृतंभूमौ पतितं जलजं शुचि ॥ 3-148-7(21493)
तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्।
अतीव मुदिता राजन्भीमसेनमथाब्रवीत् ॥ 3-148-8(21494)
पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्।
गन्धसंस्थानसंपन्नं मनसो मम नन्दनम् ॥ 3-148-9(21495)
इदं च धर्मराजाय प्रदास्यामि परंतप।
`गृह्यापराणि पुष्पाणि बहूनि पुरुषर्षभ'।
हरेरिदं मे कामाय काम्यके पुनराश्रमे ॥ 3-148-10(21496)
यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर।
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम् ॥ 3-148-11(21497)
एवमुक्त्वा तु पाञ्चली भीमसेनमनिन्दिता।
जगाम पुष्पमादाय धर्मराजाय तत्तदा ॥ 3-148-12(21498)
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः।
प्रियायाः प्रियकामः स प्रायाद्भीमो महाबलः ॥ 3-148-13(21499)
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम्।
आजिहीर्षुर्जगामाशु सपुष्पाण्यपराण्यपि ॥ 3-148-14(21500)
रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान्।
मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः।
[ददृशुः सर्वभूतानि महाबाणधनुर्धरम् ॥ 3-148-15(21501)
न ग्लानिर्न च वैक्लब्यं न भयं न च संभ्रमः।
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥] 3-148-16(21502)
द्रौपद्याः प्रियमन्विच्छन्स बाहुबलमाश्रितः।
व्यपेतभयसमोहः शैलमभ्यपतद्बली ॥ 3-148-17(21503)
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम्।
गिरिं चचारारिहरः किन्नराचरितं शुभम् ॥ 3-148-18(21504)
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः।
सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम् ॥ 3-148-19(21505)
सर्वर्तुरमणीयेषु गन्धमादनसानुषु।
सक्तचक्षुरभिप्रायान्हृदयेनानुचिन्तयन् ॥ 3-148-20(21506)
पुंस्कोकिलनिनादेषु षट्पदाचरितेषु च।
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः ॥ 3-148-21(21507)
आजिघ्रन्स महातेजाः सर्वर्तुकुसुमोद्भवम्।
गन्धमुद्धतमुद्दामो वने मत्त इव द्विपः ॥ 3-148-22(21508)
वीज्यमानः सुपुण्येन नानाकुसुमगन्धिना।
पितुः संस्पर्शशीतेन गन्धमादनवायुना ॥ 3-148-23(21509)
ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः ॥ 3-148-24(21510)
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्।
विलोकयामास तदा पुष्पहेतोररिंदमः ॥ 3-148-25(21511)
विषमच्छदैरचितैरनुलिप्त इवाङ्गुलैः।
विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः ॥ 3-148-26(21512)
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः।
मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः ॥ 3-148-27(21513)
अभिरामदरीकुञ्जनिर्झरोदककन्दरम्।
अप्सरोनूपुररवैः प्रनृत्तवरबर्हिणम् ॥ 3-148-28(21514)
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम्।
स्रस्तांशुकमिवाश्रोभ्यैर्निम्नगानिःसृतैर्जलैः ॥ 3-148-29(21515)
सशष्पकबलैः स्वस्थैरदूरपरिवर्तिभिः।
भयानभिक्षज्ञैर्हरिणैः कौतूहलनिरीक्षितः ॥ 3-148-30(21516)
चालयानः स्ववेगेन लताजालान्यनेकशः।
आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ ॥ 3-148-31(21517)
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः।
प्रांशुः कनकवर्णाभः सिंहसंहननो युवा ॥ 3-148-32(21518)
मत्तवारणविक्रन्तो मत्तवारणवेगवान्।
मत्तवारणताम्राक्षो मत्तवारणवारणः ॥ 3-148-33(21519)
प्रियपार्श्वोपविष्टाभिर्वायवृत्ताभिर्विचेष्टितैः।
यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः ॥ 3-148-34(21520)
नवावतारं रूपस् विक्रीडन्निव पाण्डवः।
चचार रमणीयेषु गन्धमादनसानुषु ॥ 3-148-35(21521)
संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून्।
द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः ॥ 3-148-36(21522)
सोऽचिन्तयत्तथा पार्थे मयि त्वतिविलम्बिते।
पुष्पहेतोः कथं त्वार्यः करिष्यति युधिष्ठिरः ॥ 3-148-37(21523)
स्नेहान्नरवरो नूनमविश्वासाद्बलस्य च।
नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः ॥ 3-148-38(21524)
कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन्।
प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः ॥ 3-148-39(21525)
[सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु।
द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ ॥] 3-148-40(21526)
कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु।
त्रासयन्गजयूथानि वातरंहा वृकोदरः ॥ 3-148-41(21527)
सिंहव्याघ्रमृगांश्चैव मर्दयानो महाबलः।
उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली ॥ 3-148-42(21528)
लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः।
उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः ॥ 3-148-43(21529)
जलावलम्बोऽतिभृशं सविद्युदिव तोयदः।
`व्यनदत्स महानादं भीमसेनो महाबलः ॥ 3-148-44(21530)
तेन शब्देन महता भीमस्य प्रतिबोधिताः।
गुहां संतत्यजुर्व्याघ्रा निलिल्युर्वनवासिनः ॥ 3-148-45(21531)
समुत्पेतुः खगास्त्रस्ता मृगयूथानि दुद्रुवुः।
ऋक्षाश्चोत्ससृजर्वृक्षांस्तत्यजुर्हरयो गुहाम्।
व्यजृम्भन्त महासिंहा महिषाश्च वनेचराः ॥ 3-148-46(21532)
तेन वित्रासिता नागाः करेणुपरिवारिताः।
तद्वनं संपरित्यज्य जग्मुरन्यन्महावनम् ॥ 3-148-47(21533)
वराहमृगसङ्घाश्च महिषाश्च वनेचराः।
व्याघ्रगोमायुसङ्घाश्च प्रणेदुर्गवयैः सह ॥ 3-148-48(21534)
रथाङ्गसाह्वदात्यूहा हंसकारण्डवप्लवाः।
शुकाः पारावताः कौञ्चा विसंज्ञा भेजिरे दिशः ॥ 3-148-49(21535)
तथाऽन्ये दर्पिता नागाः करेणुशरपीडिताः।
सिंहव्याघ्राश्च संक्रुद्धा भीमसेनमथाद्रवन् ॥ 3-148-50(21536)
शकृन्मूत्रं च मुञ्चाना भयविभ्रान्तमानसाः।
व्यादितास्या महारौद्र व्यनदन्भीषणान्रवान् ॥ 3-148-51(21537)
ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः।
गजेनान्यान्गजान्श्रीमान्सिंहं सिंहेन वा विभुः।
तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली ॥ 3-148-52(21538)
ते वध्यमाना भीमेन सिंहव्याघ्रतरक्षवः।
भयाद्विससृजुर्भीमं शकृन्मूत्रं च सुस्रुवुः ॥ 3-148-53(21539)
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः।
वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः ॥ 3-148-54(21540)
अथापश्यन्महाबाहुर्गनधमादनसानुषु।
सुरम्यं कदलीषणअडं बहुयोजनविस्तृतम् ॥ 3-148-55(21541)
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः।
महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् ॥ 3-148-56(21542)
उत्पाट्य कदलीस्तम्भान्बहुतालसमुच्छ्रयान्।
चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः।
विमर्दन्सुमहातेजा नृसिंह इव दर्पितः ॥ 3-148-57(21543)
ततः संन्यपतंस्तत्रसुबहूनि महान्ति च।
रुरुवारणयूथानि महिषाश्च जलाश्रयाः ॥ 3-148-58(21544)
`प्रविवेश ततः क्षिप्रं तानपास्य महाबलः।
वनं पाण्डुसुतः श्रीमान्नादेनापूरयन्दिशः' ॥ 3-148-59(21545)
तेन शब्देन चैवाथ भीमसेनरवेण च।
वनान्तरगताश्चापि वित्रेसुर्मृहपक्षिः ॥ 3-148-60(21546)
तस्मिननथ प्रवृत्ते तु संक्षोभे मृगपक्षिणाम्।
जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ॥ 3-148-61(21547)
तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः।
तानेवानुसरन्रम्यं ददर्श सुमहत्सरः ॥ 3-148-62(21548)
काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः।
वीज्यमानमिवाक्षोभ्यं तीरात्तीरविसर्पिभिः ॥ 3-148-63(21549)
तत्सरोऽथावतीर्याशु प्रभूतनलिनोत्पलम्।
महागज इवोद्दामश्चिक्रीड बलवद्बली ॥ 3-148-64(21550)
विक्रीड्यतस्मिन्रुचिरमुत्ततारामितद्युतिः।
`क्षोभयन्सलिलं भीमः प्रभिन्न इववारणः' ॥ 3-148-65(21551)
ततो जगाहे वेगेन तद्वनं बहुपादपम्।
दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः।
[आस्फोटयच्च बलवान्भीमः संनादयन्दिशः ॥] 3-148-66(21552)
तस्य शङ्खस्य शब्दन भीमसेनरवेण च।
बाहुशब्दन चोग्रेण नदन्तीव गिरेर्गुहाः ॥ 3-148-67(21553)
तं वज्रनिष्पेषसममास्फोटितमहारवम्।
श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः ॥ 3-148-68(21554)
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत।
मुक्तो विरावः सुमहान्पर्वतो येन पूरितः ॥ 3-148-69(21555)
तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः। 3-148-70(21556)
[भ्रातरं भीमसेनं तु विज्ञाय हनुमान्कपिः ॥ 3-148-70(21557)
दिवंगमं रुरोधाथ मार्गं भीमस्य कारणात्।
अनेन हि पथा मा वै गच्छेदिति विचार्य सः ॥ 3-148-71(21558)
आस्त एकायने मार्गे कदलीषण्डमण्डिते।
भ्रातुर्भीमस्य रक्षार्थं तं मार्गमवरुध्य वै ॥ 3-148-72(21559)
माऽत्र प्राप्स्यति शापं वा धर्षणां वेति पाण्डवः।
कदलीषण्डमध्यस्थो ह्येवं संचिन्त्य वानरः ॥ 3-148-73(21560)
प्राजृम्भत महाकायो हनूमान्नाम वानरः।
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा ॥ 3-148-74(21561)
`तेन शब्देन महता व्यबुध्यत महाकपिः'।
जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम्।
आस्फोटयच्चलाङ्गूलमिन्द्राशनिसमस्वनम् ॥ 3-148-75(21562)
तस्य लाङ्गूलनिनदं पर्वतः सुगुहामुखैः।
उद्गारमिव गौर्नर्दन्नुत्ससर्ज समन्ततः ॥ 3-148-76(21563)
लाङ्गूलास्फोटशब्दाच्च चलितः स महागिरिः।
विघूर्णमानशिखरः समन्तात्पर्यशीर्यत ॥ 3-148-77(21564)
स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम्।
अन्तर्धायविचित्रेषु चचार गिरिसानुषु ॥ 3-148-78(21565)
स भीमसेनस्तच्छ्रुत्वा संप्रहृष्टतनूरुहः।
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् ॥ 3-148-79(21566)
कदलीवनमध्यस्थमथ पीने शिलातले।
ददर्श सुमहाबाहुर्वानराधिपतिं तदा ॥ 3-148-80(21567)
विद्युत्संपातदुष्प्रेक्षं विद्युत्संपातपिङ्गलम्।
विद्युत्संपातनिनदं विद्युत्संपातचञ्चलम् ॥ 3-148-81(21568)
बाहुस्वस्तिकविन्यस्तपीनवृत्तशिरोधरम्।
स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् ॥ 3-148-82(21569)
किंचिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च।
लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् ॥ 3-148-83(21570)
ह्रस्वौष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्धुवम्।
अपश्यद्वदनं तस्य रश्मिवन्तमिवोडुपम् ॥ 3-148-84(21571)
वदनाभ्यन्तरगतैः शुक्लैर्दन्तैरलंकृतम्।
केसरोत्करसंमिश्रमशोकानामिवोत्करम् ॥ 3-148-85(21572)
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम्।
दीप्यमानेन वपुषा स्वर्चिष्मन्तमिवानलम्।
निरीक्षन्तमपत्रस्तं लोचनैर्मधुपिङ्गलैः ॥ 3-148-86(21573)
तं वानरवरं धीमानतिकायं महाबलम्।
स्वर्गपन्थानमावृत्य हिमवन्तमिव स्तितम् ॥ 3-148-87(21574)
दृष्ट्वा चैनं महाबाहुरेकं तस्मिन्महावने।
अथोपसृत्यतरसा भीमो भीमपराक्रमः ॥ 3-148-88(21575)
सिंहनादं चकारोग्रं वज्राशनिसमं बली।
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः ॥ 3-148-89(21576)
हनूमांश्च महासत्व ईषदुन्मील्य लोचने।
दृष्ट्वा तमथ सावज्ञं लोचनैर्मधुपिङ्गलैः ॥ 3-148-90(21577)
`ततः पवनजः श्रीमानन्तिकस्थं महौजसम्'।
स्मितेन चैनमासाद्यहनूमानिदमब्रवीत् ॥ 3-148-91(21578)
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः।
ननु नाम त्वया कार्या दया भूतेषु जानता ॥ 3-148-92(21579)
वयं धर्मं न जानीमस्तिर्यग्योनिमुपाश्रिताः।
नरास्तु बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु ॥ 3-148-93(21580)
क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु।
धर्मघातिषु सज्जन्ते बुद्दिमन्तो भवद्विधाः ॥ 3-148-94(21581)
न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया।
अल्पबुद्धितया बाल्यादुत्सादयसि यन्मृगान् ॥ 3-148-95(21582)
ब्रूहि कस्त्वं किमर्थं वा किमिदं वनमागतः।
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि ॥ 3-148-96(21583)
क्व च त्वयाऽद्यगन्तव्यं प्रब्रूहि पुरुषर्षभ।
अतः परमगम्योऽयं पर्वतः सुदुरारुहः ॥ 3-148-97(21584)
विना सिद्धगतिं वीर गतिरत्र न विद्यते।
[देवलोकस्य मार्गोऽयमगम्यो मानुषैः सदा] ॥ 3-148-98(21585)
कारुण्यात्त्वामहं वीर वारयामि निबोध मे।
नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो ॥ 3-148-99(21586)
स्वागतं सर्वथैवेह तवाद्य मनुजर्षभ।
इमान्यमृतकल्पानि मूलानि च फलानि च ॥ 3-148-100(21587)
भक्षयित्वा निवर्तस्व मा वृथा प्राप्स्यसे वधम्।
ग्राह्यं यदि वचो मह्यं हितं मनुजपुङ्गव ॥ 3-148-101(21588)
इति श्रीमन्महाभारेत अरण्यपर्वणि तीर्थयात्रापर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 248 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-148-3 पुष्पविकचैर्विकसितकुसुमैः ॥ 3-148-6 पूर्वोत्तरे ऐशानकोणे ॥ 3-148-8 सौगन्धिकं पद्मजातिभेदः ॥ 3-148-9 संस्थानमाकारः ॥ 3-148-10 हरेः आहर। इदमे तज्जातीयम् ॥ 3-148-15 प्रभिन्नो मत्तः ॥ 3-148-16 मातरिश्वनो वायोः ॥ 3-148-23 पितुर्यथा पुत्रस्पर्शः शीतस्तादृक् स्पर्शवता वायुनेत्यर्थः ॥ 3-148-24 पित्रा वायुना ॥ 3-148-26 धातुविच्छेदैर्धातुभेदैः। अङ्गुलैरिव विषमच्छदैः सप्तपर्णादिभिर्नानाधातुरञ्जितपत्रैः। आञ्जनेति कृष्णधातुग्रहणम्। पीतकृष्णश्वेतधातुभिरित्यर्थः ॥ 3-148-27 पयोधरैर्मेघैः ॥ 3-148-28 दरी बिलगृहम्। कदरं महाप्रपातः ॥ 3-148-29 विषाणाग्रैर्दन्ताग्रैः। शिलाः समपाषाणाः शयनासनयोग्याः। उपलास्तदन्ये ॥ 3-148-30 शष्पं बालतृणम्। कबलो ग्रासस्तद्युक्तैः ॥ 3-148-33 वारणानामपि वारणः निवारकः संग्रामादौ ॥ 3-148-34 विचेष्टितैर्व्यावृत्ताभिः निश्चेष्टाभिरेकाग्राभिरित्यर्थः ॥ 3-148-35 रूपस्य सौन्दर्यस्य ॥ 3-148-41 निर्घात उत्पातः। पर्वसु उत्सवेषु ॥ 3-148-42 पोथयन् मर्दयन् ॥ 3-148-43 लता भूचरा। बल्ली वृक्षचरेति भेदः ॥ 3-148-49 रथाङ्गसाह्वाः चक्रसमाननामानश्चक्रवाका इतियावत्। दात्यूहः मयूरश्चातको वा ॥ 3-148-50 करेणुशरेण हस्तिनीकृतेवोत्तेजनेन पीजिताः। शरस्तूतेजने वाणे इतिभेदिनी ॥ 3-148-56 आस्त्रावी मत्तः ॥ 3-148-64 नलिनोत्पलं पद्मपुष्पम् ॥ 3-148-68 आस्फोटितं बाहुधातः ॥ 3-148-71 दिवंरामं मार्गं स्वर्गमार्गम् ॥ 3-148-72 एकायने अतिसंकुचिते ॥ 3-148-76 उद्गारं रप्रतिशब्दं गौरिव उत्ससर्ज ॥ 3-148-82 बाहोः स्वस्तिकं चतुरश्रं मूलं अंस इति यावत् तत्र न्यस्तकधरमित्यर्थः। तत्र हेतुः स्कन्धेति। विपुलांसत्वादित्यर्थः ॥ 3-148-84 उडुपं चन्द्रम् ॥ 3-148-85 अशोकानामशोकपुष्पाणाम् ॥ 3-148-92 सरुजः सपीडः। ते स्वया ॥ 3-148-99 आश्वसिहि विश्वासं कुरु ॥ 3-148-101 मह्यं मम ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|